
Jagannathashtakam
जगन्नाथाष्टकम्
Vishnu Stotram
Jagannathashtakam is an eight-verse hymn composed by Adi Shankaracharya, praising Lord Jagannatha (Lord of the Universe), the deity of Puri.
ॐ
कदाचित्कालिन्दीतटविपिनसङ्गीतकवरो
मुदा गोपीनारीवदनकमलास्वादमधुपः।
रमाशम्भुब्रह्मामरपतिगणेशार्चितपदो
जगन्नाथः स्वामी नयनपथगामी भवतु मे॥१॥
भुजे सव्ये वेणुं शिरसि शिखिपिञ्छं कटितटे
दुकूलं नेत्रान्ते सहचरकटाक्षं विदधते।
सदा श्रीमद्वृन्दावनवसतिलीलापरिचयो
जगन्नाथः स्वामी नयनपथगामी भवतु मे॥२॥
महाम्भोधेस्तीरे कनकरुचिरे नीलशिखरे
वसन्प्रासादान्तः सहजबलभद्रेण बलिना।
सुभद्रामध्यस्थः सकलसुरसेवावसरदो
जगन्नाथः स्वामी नयनपथगामी भवतु मे॥३॥
कृपापारावारः सजलजलदश्रेणिरुचिरो
रमावाणीरामः स्फुरदमलपङ्केरुहमुखः।
सुरेन्द्रैराराध्यः श्रुतिगणशिखागीतचरितो
जगन्नाथः स्वामी नयनपथगामी भवतु मे॥४॥
रथारूढो गच्छन्पथि मिलितभूदेवपटलैः
स्तुतिप्रादुर्भावमुखरविकलानेत्रसरणिः।
दयासिन्धुर्बन्धुः सकलजगतां सिन्धुसुतया
जगन्नाथः स्वामी नयनपथगामी भवतु मे॥५॥
परमात्मंसन्दोहशतगुणितं दारुवपुषे
वदन्ति त्वां वेदा नहि नहि गिरः कुत्र गतयः।
हरे काशीनाथे जगति कहियेऽसौ हरिरिति
जगन्नाथः स्वामी नयनपथगामी भवतु मे॥६॥
न वै याचे राज्यं न च कनकमाणिक्यविभवं
न याचेऽहं रम्यां सकलजनकामं वरवधूम्।
सदा काले काले प्रमथपतिना गीतचरितो
जगन्नाथः स्वामी नयनपथगामी भवतु मे॥७॥
हर त्वं संसारं द्रुततरमसारं सुरपते
हर त्वं पापानां विततिमपरां यादवपते।
अहो दीनानाथं निहितमचलं पातुमनिशं
जगन्नाथः स्वामी नयनपथगामी भवतु मे॥८॥
जगन्नाथाष्टकं पुण्यं यः पठेत्प्रयतः शुचिः।
सर्वपापविशुद्धात्मा विष्णुलोकं स गच्छति॥
ॐ