Stotrams/Ganga Ashtakam
Durga

Ganga Ashtakam

गंगाष्टकम्

Durga Stotram

Ganga Ashtakam is an eight-verse hymn in praise of the holy river Ganga (Ganges), composed by Adi Shankaracharya. It celebrates Ganga as the purifier of sins and the bestower of liberation, flowing from the feet of Lord Vishnu.

भागीरथि सुखदायिनि मातस्तव जलमहिमा निगमे ख्यातः। नाहं जाने तव महिमानं पाहि कृपामयि मामज्ञानम्॥१॥ हरिपादपद्मतरङ्गिणि गङ्गे हिमविधुमुक्ताधवलतरङ्गे। दूरीकुरु मम दुष्कृतिभारं कुरु कृपया भवसागरपारम्॥२॥ तव जलममलं येन निपीतं परमपदं खलु तेन गृहीतम्। मातर्गङ्गे त्वयि यो भक्तः किल तं द्रष्टुं न यमः शक्तः॥३॥ पतितोद्धारिणि जाह्नवि गङ्गे खण्डितगिरिवरमण्डितभङ्गे। भीष्मजननि हे मुनिवरकन्ये पतितनिवारिणि त्रिभुवनधन्ये॥४॥ कल्पलतामिव फलदां लोके प्रणमति यस्त्वां न पतति शोके। पारावारविहारिणि गङ्गे विमुखयुवतिकृततरलापाङ्गे॥५॥ तव चेन्मातः स्रोतःस्नातः पुनरपि जठरे सोऽपि न जातः। नरकनिवारिणि जाह्नवि गङ्गे कलुषविनाशिनि महिमोत्तुङ्गे॥६॥ पुनरसदङ्गे पुण्यतरङ्गे जय जय जाह्नवि करुणापाङ्गे। इन्द्रमुकुटमणिराजितचरणे सुखदे शुभदे भृत्यशरण्ये॥७॥ रोगं शोकं तापं पापं हर मे भगवति कुमतिकलापम्। त्रिभुवनसारे वसुधाहारे त्वमसि गतिर्मम खलु संसारे॥८॥