
Ganesha Ashtakam
गणेशाष्टकम्
Ganesha Stotram
Ganesha Ashtakam is an eight-verse hymn praising Lord Ganesha, the remover of obstacles. It describes his divine form, wisdom, and the blessings he bestows upon devotees.
ॐ
सर्वे उचुः
यतो अनन्तशक्तेर्नन्तास्त्वमेव जगदीश्वराः।
यस्य सर्वमिदं विश्वं तमर्थं हृदि चिन्तयन्॥
एकदन्तं महाकायं तप्तकाञ्चनसन्निभम्।
लम्बोदरं विशालाक्षं वन्देऽहं गणनायकम्॥१॥
मौञ्जीकृष्णाजिनधरं नागयज्ञोपवीतिनम्।
बालेन्दुसुन्दरशिरसं वन्देऽहं गणनायकम्॥२॥
चित्ररत्नविचित्राङ्गं चित्रमालाविभूषितम्।
काम रूपधरं देवं वन्देऽहं गणनायकम्॥३॥
गजवक्त्रं सुरश्रेष्ठं कर्णचामरभूषितम्।
पाशाङ्कुशधरं देवं वन्देऽहं गणनायकम्॥४॥
मूषकोत्तममारूह्य देवासुरमहाहवे।
योद्धुकामं महावीर्यं वन्देऽहं गणनायकम्॥५॥
यक्षकिन्नरगन्धर्वसिद्धविद्याधरैः सदा।
स्तूयमानं महाभाहुं वन्देऽहं गणनायकम्॥६॥
अम्बिकाहृदयानन्दं मातृभिः परिवेष्टितम्।
भक्तप्रियं मदोन्मत्तं वन्देऽहं गणनायकम्॥७॥
सर्वविघ्नहरं देवं सर्वविघ्नविवर्जितम्।
सर्वसिद्धिप्रदातारं वन्देऽहं गणनायकम्॥८॥
गणाष्टकमिदं पुण्यं यः पठेत्सततं नरः।
सिद्ध्यन्ति सर्वकार्याणि विद्यावान् धनवान् भवेत्॥
ॐ