Stotrams/Durga Keelaka Stotram
Durga

Durga Keelaka Stotram

दुर्गा कीलक स्तोत्रम्

Durga Stotram

Durga Keelaka Stotram is an essential part of the Durga Saptashati recitation from the Markandeya Purana. The word 'Keelaka' means a key or lock, and this stotram is believed to unlock the full power and blessings of the Saptashati.

ॐ नमश्चण्डिकायै। मार्कण्डेय उवाच- ॐ विशुद्धज्ञानदेहाय त्रिवेदीदिव्यचक्षुषे। श्रेयः प्राप्तिनिमित्ताय नमः सोमार्धधारिणे॥१॥ सर्वमेतद्विजानीयान्मन्त्राणामपि कीलकम्। सोऽपि क्षेममवाप्नोति सततं जाप्यतत्परः॥२॥ सिद्ध्यन्त्युच्चाटनादीनि वस्तूनि सकलान्यपि। एतेन स्तुवतां देवीं स्तोत्रवृन्देन भक्तितः॥३॥ न मन्त्रो नौषधं तत्र न किञ्चिदपि विद्यते। विना जाप्येन सिद्ध्येत् सर्वमुच्चाटनादिकम्॥४॥ समग्राण्यपि सिद्ध्यन्ति लोकशंकामिमां हरः। कृत्वा निमन्त्रयामास सर्वमेवमिदं शुभम्॥५॥ स्तोत्रं वै चण्डिकायास्तु तच्च गुह्यं चकार सः। समाप्तिर्न च पुण्यस्य तां यथावन्मनुष्यजाः॥६॥ सोऽपि क्षेममवाप्नोति सर्वमेवं जपन् सदा। इत्थं विधानादशेषं सर्वमेव फलं लभेत्॥७॥