
Shri Rudram Chamakam (Key Portions)
श्री रुद्रम् चमकम् (प्रमुख भाग)
Shiva Stotram
The Chamakam is the second part of the Sri Rudram from the Krishna Yajurveda (Taittiriya Samhita). While the Namakam pacifies Lord Rudra, the Chamakam is a series of prayers requesting blessings. Each anuvaka ends with 'cha me' meaning 'and grant me'.
ॐ
॥ श्री रुद्रम् चमकम् ॥
॥ प्रथमोऽनुवाकः ॥
अग्नाविष्णू सजोषसेमा वर्धन्तु वां गिरः।
द्युम्नैर्वाजेभिरागतम्॥
वाजश्च मे प्रसवश्च मे प्रयतिश्च मे प्रसितिश्च मे
धीतिश्च मे क्रतुश्च मे स्वरश्च मे श्लोकश्च मे
श्रावश्च मे श्रुतिश्च मे ज्योतिश्च मे सुवश्च मे
प्राणश्च मेऽपानश्च मे व्यानश्च मेऽसुश्च मे
चित्तं च म आधीतं च मे वाक्च मे मनश्च मे
चक्षुश्च मे श्रोत्रं च मे दक्षश्च मे बलं च मे
ओजश्च मे सहश्च मे आयुश्च मे जरा च मे
आत्मा च मे तनूश्च मे शर्म च मे वर्म च मे
अङ्गानि च मेऽस्थानि च मे परूंषि च मे शरीराणि च मे॥
॥ द्वितीयोऽनुवाकः ॥
ज्यैष्ठ्यं च म आधिपत्यं च मे मन्युश्च मे भामश्च मे
अमश्च मेऽम्भश्च मे जेमा च मे महिमा च मे
वरिमा च मे प्रथिमा च मे वर्ष्मा च मे द्राघिमा च मे
वृद्धं च मे वृद्धिश्च मे सत्यं च मे श्रद्धा च मे
जगच्च मे धनं च मे वशश्च मे त्विषिश्च मे
क्रीडा च मे मोदश्च मे जातं च मे जनिष्यमाणं च मे
सूक्तं च मे सुकृतं च मे वित्तं च मे वेद्यं च मे
भूतं च मे भविष्यच्च मे सुगं च मे सुपथं च मे
ऋद्धं च म ऋद्धिश्च मे क्लृप्तं च मे क्लृप्तिश्च मे
मतिश्च मे सुमतिश्च मे॥
॥ तृतीयोऽनुवाकः ॥
शं च मे मयश्च मे प्रियं च मेऽनुकामश्च मे
कामश्च मे सौमनसश्च मे भद्रं च मे श्रेयश्च मे
वस्यश्च मे यशश्च मे भगश्च मे द्रविणं च मे
यन्ता च मे धर्ता च मे क्षेमश्च मे धृतिश्च मे
विश्वं च मे महश्च मे संवित्च मे ज्ञात्रं च मे
सूश्च मे प्रसूश्च मे सीरं च मे लयश्च म
ऋतं च मे अमृतं च मे अयक्ष्मं च मे अनामयच्च मे
जीवातुश्च मे दीर्घायुत्वं च मे अनमित्रं च मे
अभयं च मे सुगं च मे शयनं च मे सूषा च मे
सुदिनं च मे॥
॥ एकादशोऽनुवाकः (फलश्रुति) ॥
ॐ शान्तिः शान्तिः शान्तिः॥
ॐ