Stotrams/Shiva Sahasranaam (Key Verses)
Shiva

Shiva Sahasranaam (Key Verses)

शिव सहस्रनाम (प्रमुख श्लोक)

Shiva Stotram

The Shiva Sahasranaam contains 1000 sacred names of Lord Shiva from the Shiv Mahapurana. These key verses include the dhyana shlokas, selected important name-verses, and the phala shruti that describe the immense merit gained by reciting the thousand names of Mahadeva.

॥ श्री शिव सहस्रनाम स्तोत्रम् ॥ ॥ ध्यानम् ॥ शान्तं पद्मासनस्थं शशधरमकुटं पञ्चवक्त्रं त्रिनेत्रं शूलं वज्रं च खड्गं परशुमभयदं दक्षभागे वहन्तम्। नागं पाशं च घण्टां डमरुकसहितं चाङ्कुशं वामभागे नानालङ्कारदीप्तं स्फटिकमणिनिभं पार्वतीशं नमामि॥ वन्दे शम्भुमुमापतिं सुरगुरुं वन्दे जगत्कारणं वन्दे पन्नगभूषणं मृगधरं वन्दे पशूनां पतिम्। वन्दे सूर्यशशाङ्कवह्निनयनं वन्दे मुकुन्दप्रियं वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम्॥ ॥ शिव सहस्रनाम प्रारम्भ ॥ ॐ स्थिरः स्थाणुः प्रभुर्भानुः प्रवरो वरदो वरः। सर्वात्मा सर्वविख्यातः सर्वः सर्वकरो भवः॥१॥ जटी चर्मी शिखण्डी च सर्वाङ्गः सर्वभावनः। हरिश्च हरिणाक्शश्च सर्वभूतहरः प्रभुः॥२॥ प्रवृत्तिश्च निवृत्तिश्च नियतः शाश्वतो ध्रुवः। श्मशानचारी भगवान् खचरो गोचरोऽर्दनः॥३॥ अभिवाद्यो महाकर्मा तपस्वी भूतभावनः। उन्मत्तवेषप्रच्छन्नः सर्वलोकप्रजापतिः॥४॥ महारूपो महाकायो वृषरूपो महायशाः। महाऽऽत्मा सर्वभूतश्च विरूपो वामनो मनुः॥५॥ लोकपालोऽन्तर्हितात्मा प्रसादो हयगर्दभिः। पवित्रश्च महांश्चैव नियमो नियमाश्रयः॥६॥ सर्वकर्मा स्वयम्भूश्चादिरादिकरो निधिः। सहस्राक्षो विशालाक्षः सोमो नक्षत्रसाधकः॥७॥ चन्द्रः सूर्यः शनिः केतुर्ग्रहो ग्रहपतिर्वरः। अत्रिरत्र्यानमस्कर्ता मृगबाणार्पणोऽनघः॥८॥ महातपा घोरतपाऽदीनो दीनसाधकः। संवत्सरकरो मन्त्रः प्रमाणं परमं तपः॥९॥ योगी योज्यो महाबीजो महारेता महाबलः। सुवर्णरेताः सर्वज्ञः सुबीजो वृषभवाहनः॥१०॥ दशबाहुस्त्वनिमिषो नीलकण्ठ उमापतिः। विश्वरूपः स्वयं श्रेष्ठो बलवीरोऽबलोगणः॥११॥ गणकर्ता गणपतिर्दिग्वासाः काम एव च। मन्त्रवित् परमो मन्त्रः सर्वभावकरो हरः॥१२॥ कमण्डलुधरो धन्वी बाणहस्तः कपालवान्। अशनी शतघ्नी खड्गी पट्टिशी चायुधी महान्॥१३॥ स्रुवहस्तः सुरूपश्च तेजस्तेजस्करो निधिः। उष्णीषी च सुवक्त्रश्चोदग्रो विनतस्तथा॥१४॥ दीर्घश्च हरिकेशश्च सुतीर्थः कृष्ण एव च। सृगालरूपः सिद्धार्थो मुण्डः सर्वशुभङ्करः॥१५॥ अजश्च बहुरूपश्च गन्धधारी कपर्द्यपि। ऊर्ध्वरेतोर्ध्वलिङ्गश्च ऊर्ध्वशायी नभस्थलः॥१६॥ त्रिजटैश्चीरवासाश्च रुद्रः सेनापतिर्विभुः। अहश्चरोऽथ नक्तं च तिग्ममन्युः सुवर्चसः॥१७॥ गजहा दैत्यहा कालो लोकधाता गुणाकरः। सिंहशार्दूलरूपश्च आर्द्रचर्माम्बरावृतः॥१८॥ कालयोगी महानादः सर्ववासश्चतुष्पथः। निशाचरः प्रेतचारी भूतचारी महेश्वरः॥१९॥ बहुभूतो बहुधरः स्वर्भानुरमितो गतिः। नृत्यप्रियो नित्यनर्तो नर्तकः सर्वलासकः॥२०॥ ॥ फलश्रुतिः ॥ इति श्रीशिवसहस्रनामस्तोत्रं सम्पूर्णम्। इदं सहस्रनामाख्यं शिवनाम्नां सुपुण्यदम्। यः पठेच्छृणुयाद्वापि सर्वपापैः प्रमुच्यते॥ श्रद्धया परया भक्त्या शुचिर्भूत्वा समाहितः। शिवसन्निधौ पठेद्यस्तु सर्वान् कामानवाप्नुयात्॥ अपुत्रो लभते पुत्रं धनार्थी धनमाप्नुयात्। रोगी रोगात् प्रमुच्येत बद्धो मुच्येत बन्धनात्॥ यत्र यत्र पठेद्भक्त्या तत्र तत्र शिवं भवेत्। सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधके॥