Stotrams/Shiva Dwadasha Jyotirlinga Stotram
Shiva

Shiva Dwadasha Jyotirlinga Stotram

द्वादश ज्योतिर्लिंग स्तोत्रम्

Shiva Stotram

The Dwadasha Jyotirlinga Stotram enumerates and glorifies the twelve sacred Jyotirlingas of Lord Shiva spread across India - Somnath, Mallikarjuna, Mahakaleshwar, Omkareshwar, Kedarnath, Bhimashankar, Kashi Vishwanath, Trimbakeshwar, Vaidyanath, Nageshwar, Rameshwaram, and Grishneshwar.

॥ श्री द्वादश ज्योतिर्लिंग स्तोत्रम् ॥ सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम्। उज्जयिन्यां महाकालमोङ्कारममलेश्वरम्॥१॥ परल्यां वैद्यनाथं च डाकिन्यां भीमशङ्करम्। सेतुबन्धे तु रामेशं नागेशं दारुकावने॥२॥ वाराणस्यां तु विश्वेशं त्र्यम्बकं गौतमीतटे। हिमालये तु केदारं घृष्णेशं च शिवालये॥३॥ एतानि ज्योतिर्लिङ्गानि सायं प्रातः पठेन्नरः। सप्तजन्मकृतं पापं स्मरणेन विनश्यति॥४॥ सौराष्ट्रदेशे विशदेऽतिरम्ये ज्योतिर्मयं चन्द्रकलावतंसम्। भक्तिप्रदानाय कृपावतीर्णं तं सोमनाथं शरणं प्रपद्ये॥५॥ श्रीशैलशृङ्गे विबुधातिसङ्गे तुलाद्रितुङ्गेऽपि मुदा वसन्तम्। तमर्जुनं मल्लिकपूर्वमेकं नमामि संसारसमुद्रसेतुम्॥६॥ अवन्तिकायां विहितावतारं मुक्तिप्रदानाय च सज्जनानाम्। अकालमृत्योः परिरक्षणार्थं वन्दे महाकालमहासुरेशम्॥७॥ कावेरिकानर्मदयोः पवित्रे समागमे सज्जनतारणाय। सदैव मान्धातृपुरे वसन्तमोङ्कारमीशं शिवमेकमीडे॥८॥ पूर्वोत्तरे प्रज्वलिकानिधाने सदा वसन्तं गिरिजासमेतम्। सुरासुराराधितपादपद्मं श्रीवैद्यनाथं तमहं नमामि॥९॥ यं डाकिनीशाकिनिकासमाजे निषेव्यमाणं पिशिताशनैश्च। सदैव भीमादिपदप्रसिद्धं तं शङ्करं भक्तहितं नमामि॥१०॥ श्रीताम्रपर्णीजलराशियोगे निबध्य सेतुं विशिखैरसङ्ख्यैः। श्रीरामचन्द्रेण समर्पितं तं रामेश्वराख्यं निपतो नमामि॥११॥ यामये सदानन्दवने वसन्तमानन्दकन्दं हतपापबृन्दम्। वाराणसीनाथमनाथनाथं श्रीविश्वनाथं शरणं प्रपद्ये॥१२॥ सह्याद्रिशीर्षे विमले वसन्तं गोदावरीतीरपवित्रदेशे। यद्दर्शनात्पातकमाशु नाशं प्रयाति तं त्र्यम्बकमीशमीडे॥१३॥ महाद्रिपार्श्वे च तटे रमन्तं सम्पूज्यमानं सततं मुनीन्द्रैः। सुरासुरैर्यक्षमहोरगाद्यैः केदारमीशं शिवमेकमीडे॥१४॥ इलापुरे रम्यविशालकेऽस्मिन् समुल्लसन्तं च जगद्वरेण्यम्। वन्दे महोदारतरस्वभावं घृष्णेश्वराख्यं शरणं प्रपद्ये॥१५॥ ज्योतिर्लिङ्गानि सर्वाणि सायं प्रातः पठेन्नरः। जन्मान्तरकृतं पापं सप्तजन्मकृतं तथा। स्मरणेन विनश्यन्ति ज्योतिर्लिङ्गनमस्कृतेः॥