Stotrams/Shiva Ashtakam
Shiva

Shiva Ashtakam

शिवाष्टकम्

Shiva Stotram

Shiva Ashtakam is a powerful eight-verse hymn dedicated to Lord Shiva. Beginning with 'Prabhum Prananatham', it glorifies Shiva as the supreme lord, the master of Nandi, and the destroyer of all sins and sorrows.

॥ श्री शिवाष्टकम् ॥ प्रभुं प्राणनाथं विभुं विश्वनाथं जगन्नाथनाथं सदानन्दभाजम्। भवद्भव्यभूतेश्वरं भूतनाथं शिवं शङ्करं शम्भुमीशानमीडे॥१॥ गळे रुण्डमालं तनौ सर्पजालं महाकालकालं गणेशादिपालम्। जटाजूटभङ्गोत्तरङ्गैर्विशालं शिवं शङ्करं शम्भुमीशानमीडे॥२॥ मुदामाकरं मण्डनं मण्डयन्तं महामण्डलं भस्मभूषाधरं तम्। अनादिं ह्यपारं महामोहमारं शिवं शङ्करं शम्भुमीशानमीडे॥३॥ वटाधो निवासं महाट्टाट्टहासं महापापनाशं सदासुप्रकाशम्। गिरीशं गणेशं सुरेशं महेशं शिवं शङ्करं शम्भुमीशानमीडे॥४॥ गिरीन्द्रात्मजासंगृहीतार्धदेहं गिरौ संस्थितं सर्वदापन्नगेहम्। परब्रह्मब्रह्मादिभिर्वन्द्यमानं शिवं शङ्करं शम्भुमीशानमीडे॥५॥ कपालं त्रिशूलं कराभ्यां दधानं पदाम्भोजनम्राय कामं ददानम्। बलीवर्दमानं सुराणां प्रधानं शिवं शङ्करं शम्भुमीशानमीडे॥६॥ शरच्चन्द्रगात्रं गणानन्दपात्रं त्रिनेत्रं पवित्रं धनेशस्य मित्रम्। अपर्णाकलत्रं सदा सच्चरित्रं शिवं शङ्करं शम्भुमीशानमीडे॥७॥ हरं सर्पहारं चिता भूविहारं भवं वेदसारं सदा निर्विकारम्। श्मशाने वसन्तं मनोजं दहन्तं शिवं शङ्करं शम्भुमीशानमीडे॥८॥ शिवाष्टकमिदं पुण्यं यः पठेच्छिवसन्निधौ। शिवलोकमवाप्नोति शिवेन सह मोदते॥