Stotrams/Krishna Ashtakam
Krishna

Krishna Ashtakam

कृष्णाष्टकम्

Krishna Stotram

Krishna Ashtakam is a devotional hymn of eight verses glorifying Lord Krishna, describing his divine form, qualities, and pastimes as the Supreme Being.

वसुदेवसुतं देवं कंसचाणूरमर्दनम्। देवकीपरमानन्दं कृष्णं वन्दे जगद्गुरुम्॥१॥ अतसीपुष्पसंकाशं हारनूपुरशोभितम्। रत्नकङ्कणकेयूरं कृष्णं वन्दे जगद्गुरुम्॥२॥ कुटिलालकसंयुक्तं पूर्णचन्द्रनिभाननम्। विलसत्कुण्डलधरं कृष्णं वन्दे जगद्गुरुम्॥३॥ मन्दारगन्धसंयुक्तं चारुहासं चतुर्भुजम्। बर्हिपिञ्छावचूडाङ्गं कृष्णं वन्दे जगद्गुरुम्॥४॥ उत्फुल्लपद्मपत्राक्षं नीलजीमूतसन्निभम्। यादवानां शिरोरत्नं कृष्णं वन्दे जगद्गुरुम्॥५॥ रुक्मिणीकेलिसंयुक्तं पीताम्बरसुशोभितम्। अवाप्ततुलसीगन्धं कृष्णं वन्दे जगद्गुरुम्॥६॥ गोपिकानां कुचद्वन्द्वकुङ्कुमाङ्कितवक्षसम्। श्रीनिकेतं महेष्वासं कृष्णं वन्दे जगद्गुरुम्॥७॥ श्रीवत्साङ्कं महोरस्कं वनमालाविराजितम्। शङ्खचक्रधरं देवं कृष्णं वन्दे जगद्गुरुम्॥८॥ कृष्णाष्टकमिदं पुण्यं प्रातरुत्थाय यः पठेत्। कोटिजन्मकृतं पापं स्मरणेन विनश्यति॥